वांछित मन्त्र चुनें

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

adhukṣat pipyuṣīm iṣam ūrjaṁ saptapadīm ariḥ | sūryasya sapta raśmibhiḥ ||

पद पाठ

अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः । सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥ ८.७२.१६

ऋग्वेद » मण्डल:8» सूक्त:72» मन्त्र:16 | अष्टक:6» अध्याय:5» वर्ग:17» मन्त्र:1 | मण्डल:8» अनुवाक:8» मन्त्र:16